हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 81 – युद्धकाण्ड एकाशीतितमः सर्गः (८१)


॥ मायासीतावधः ॥

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।
सन्निवृत्याहवात्तस्मात्संविवेश पुरं ततः ॥ १ ॥

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥ २ ॥

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ।
इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥ ३ ॥

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४ ॥

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः ।
बलेन महतावृत्य तस्या वधमरोचयत् ॥ ५ ॥

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६ ॥

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।
उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ७ ॥

हनुमान्पुरतस्तेषां जगाम कपिकुञ्जरः ।
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ८ ॥

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ।
एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९ ॥

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ।
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ १० ॥

तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु ।
बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥ ११ ॥

तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम् ।
बाष्पपर्याकुलमुखो हनुमान्व्यथितोऽभवत् ॥ १२ ॥

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम् ।
सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् ॥ १३ ॥

किं समर्थितमस्येति चिन्तयन्स महाकपिः ।
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १४ ॥

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः ।
कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥ १५ ॥

तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः ।
क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ १६ ॥

गृहीतमूर्धजां दृष्ट्वा हनुमान्दैन्यमागतः ।
शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः ॥ १७ ॥

तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् ।
अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥ १८ ॥

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ।
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ १९ ॥

धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥ २० ॥

अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ।
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ॥ २१ ॥

किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ।
सीतां च हत्वा न चिरं जीविष्यसि कथञ्चन ॥ २२ ॥

वधार्हकर्मणाऽनेन मम हस्तगतो ह्यसि ।
ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः ॥ २३ ॥

इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिपत्स्यसे ।
इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः ॥ २४ ॥

अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ।
आपतन्तं महावीर्यं तदनीकं वनौकसाम् ॥ २५ ॥

रक्षसां भीमवेगानामनीकं तु न्यवारयत् ।
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ॥ २६ ॥

हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह ।
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ॥ २७ ॥

तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ।
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ॥ २८ ॥

सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ।
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम ॥ २९ ॥

पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ।
तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा ॥ ३० ॥

शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ।
यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी ॥ ३१ ॥

सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ।
तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ॥ ३२ ॥

मया रामस्य पश्येमां कोपेन च निषूदिताम् ।
एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥ ३३ ॥

ततः खड्गेन महता हत्वा तामिन्द्रिजित्स्वयम् ।
हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ ३४ ॥

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।
व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य च ॥ ३५ ॥

तथा तु सीतां विनिहत्य दुर्मतिः
प्रहृष्टचेताः स बभूव रावणिः ।
तं हृष्टरूपं समुदीक्ष्य वानरा
विषण्णरूपाः सहसा प्रदुद्रुवुः ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.